॥ श्री धन्वंतरये नमः ॥

 

"आयुर्वेदव्यासपीठम् !"

 

              आयुर्वेदव्यासपीठमिदं सङ्घटनं द्वितीये सहस्त्रके स्थपितम् । इदानीं सङ्घटनेन पञ्चदशवर्षाणां कार्यकालः पूर्णं कृतः । विंशतिवर्षेभ्यः प्राक् ‘आयुर्वेदस्य अच्छेदिननि आगमिष्यन्ति इति श्रुण्वन्तानां कृते तथा च आयुर्वेदस्नातकानां कृते अच्छेदिनानां प्रतीतिः तु इतोऽपि नागता । तत्दिनेषु देशः निजिकरणप्रक्रियायाः समयम् अनुभवति स्म । तत्फलस्वरूपेण एव (प्रायव्हेट) आयुर्वेद महाविद्यालयानां स्थापना विकासश्च अभवत् । आयुर्वेद स्नातकानां संख्या वर्धिता किंतु आत्मविश्वासविहिनानां, आत्मसम्मानशून्यानां तथा च ऍलोपॅथीपद्धतीमनुसृत्य कार्यं कुर्वाणानां आयुर्वेद स्नातकानाम् नूतनाः अन्वयाः समुद्भूताः । निजीकरणेन शिक्षास्तराः अवनतः तथापि “आयुर्वेदस्य” अच्छेदिनानि आगमिष्यन्ति इत्ये तस्याः उद्घोषणायाः प्रभावः दृष्टाः आसित् स्वल्परूपेण यतः जागतिक स्तरे आयुर्वेदं प्रति रूचिः संवर्धिता आसित् ।

            आयुर्वेदस्य एतादृशया अवस्थया अस्वस्थाः, आयुर्वेदक्षेत्रे कार्यरताः स्वयंसेवकाः, आयुर्वेदानुरागिणश्च राममळास्थाने सम्मिलिताः । संम्मेलनेऽस्मिन् विचारमंथनम् कृत्वा तैः सामान्यजनेषु आयुर्वेदस्नातकेषु च आत्मविश्वासनिर्माणाय, आयुर्वेद चिकित्सायै जिज्ञासा वर्धनाय तथा च प्राचीनन्यासरूपशास्त्रस्य उपयोजनाय आयुर्वेद व्यापीठस्य स्थापना कृता । आयुर्वेद व्यासपीठम् संस्था आयुर्वेद संबंधितानां छात्राणां, शिक्षकाणां, चिकित्सकानां वनौषध्युत्पादकानां, उद्योजकानां कृते एका सूत्रात्मिका संस्था वर्तते ।

            सङ्घटनस्यास्य प्रचारः, शिक्षा, सेवा, संशोधनश्च इत्येतानि चत्वारि सोपानानि सन्ति । सङ्घटनस्य विस्तारः महाराष्ट्रराज्ये, गोवाराज्ये तथा च गुजरातराज्ये जातः । आयुर्वेदचिकित्सकानां ज्ञानवर्धनार्थं रूग्णानुभवचर्चासत्राणां आयोजनम् प्रतिमासे सफलरूपेण भवति । षट्त्रिंशत् नगरेषु प्रतिमासे, प्रतिद्विमासे, प्रतित्रिमासे वा रूग्णानुभवचर्चायाः आयोजनम् वर्तते । तत्र प्रतिमासे त्रिसहस्त्राधिकाः वैद्याः सभागिनः सन्ति । अद्य पर्यन्तम् द्विसहसस्त्राधिकानि चर्चासत्रानि संपन्नानि । तत्फलस्वरूपेण त्र्यकशून्यद्वितमे वर्षे Ayurvedic Education perspective and implications इत्येतस्य पुस्तकस्य प्रकाशनमपि अभवत् । गुजरातराज्ये व्यासपिठ विद्याभारत्योः संयुक्तप्रयत्नैः प्रतिमासे पुष्यनक्षत्रे नवजातशिषुणाम् कृते सुवर्णप्राशनविधेः आयोजनम् भवति । अष्टसहस्त्रेभ्यः अधिकाः शिशवः लाभार्हाः सन्ति । एतस्य अभियानस्य संशोधनार्थम् सङ्घटनकार्यमपि प्रचलति ।

            अहमदनगरे धन्वंतरी – वनौषधि – उद्यानप्रकल्पस्य कार्यम् प्रारब्धम् । द्विशताधिकानां वनौषधीनां वपनम् जातम् । तत्कृते नगरपालिकया भाटकतत्वेन भूदानम् कृतम् ।

स्वास्थ्यरक्षार्थम् न केवलम् आयुर्वेदज्ञानानां प्रबोधनम् आवश्यकम्, अपि तु सर्वसमाजस्य प्रबोधनम् महत्वपूर्णम् इति विचिन्त्य विविधानि व्याख्यानानि चिकित्साशिबिराणि च आयोजितानि । संभाजीनगरे एकस्मिन् दिने एकस्मिन् समये ज्ञाता अष्टादश व्याख्यान श्रृंखला, अमरावतीपनवेलनरयोः आयोजिता आरोग्य यात्रा तथा च नासिक नगरे आयोजितम् आयुर्वेद परिचय प्रदर्शनञ्च इत्येतानि कानिचन् उदाहरणानि सङ्घटनस्य प्रयत्नानाम् ।

‘प्रकाशनम्’ इत्येतत् सङ्घटनस्य महत्वपूर्णम् अङ्गम् । २००१ प्रभृति नियमेन विषेशविषयिन्यः दैनंदिन्यः प्रकाशनम् भवति । दैनंदिन्यः अन्तिमभागे द्विसहस्त्राधिकवैद्यानां सूचिः अपि वर्तते । तथा च मराठी भाषायां दशपुस्तकानि, आंग्लभाषायां एकम् पुस्तकमपि प्रकाशितम् । केषाञ्चन् मराठी पुस्तकानां हिंदी भाषायां अनुवादस्य कार्यमपि प्रचलति ।

            महत् कार्यार्थम् सक्षम कार्यकर्तृणां निर्माणमपि महत्वपूर्णमस्ति । अतः विभागस्तरे केंद्रियस्तरे च अभ्यासवर्गाणामपि आयोजनम् भवति । सङ्घटनेऽस्मिन् षट् युवा वैद्यः पूर्णकालिककार्यकर्तारः सन्ति । ‘सङ्घेशक्तिः’ इत्येषः मन्त्रः एव युगेऽस्मिन् । तथा च सङ्घटनेन एव विचारे व्यवहारे च परिवर्तनम् शक्यम् इत्येषः विश्वासः व्यासपीठस्य । तेन एव विश्वासेन व्यासपीठम् कार्यम् करोति ।

 

-----***----